|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.227. अध्यायः 227
Mahabharata - Adi Parva - Chapter Topics
द्रौपद्या नमस्कृतया गान्धार्या तद्रूपदर्शनेन तस्याः स्वपुत्रमृत्युत्ववितर्कः॥ 1 ॥
धृतराष्ट्रेण युधिष्ठिरस्य धर्मराज्येऽभिषेकः॥ 2 ॥
पाण्डवानां खाण्डवप्रस्थगमनम्॥ 3 ॥
श्रीकृष्णचिन्तितेनेन्द्रेण विश्वकर्मणः प्रेषणम्॥ 4 ॥
विश्वकर्मणा इन्द्रप्रस्थपुरनिर्माणम्॥ 5 ॥
तत्रागतानां सर्वेषां विसर्जनम्॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text
`वैशम्पायन उवाच। 1-227-0x(1240)(9809)
दुर्योधनस्य महिषी काशिराजसुता तदा।
धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा॥ 1-227-1(9810)
पाञ्चालीं प्रतिजग्राह साध्वीं श्रियमिवापराम्।
पूजयामास पूजार्हां शचीदेवीमिवागताम्॥ 1-227-2(9811)
ववन्दे तत्र गान्धारीं कृष्णया सह माधवी।
आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे॥ 1-227-3(9812)
परिष्वज्यैव गान्धारी कृष्णां कमललोचनाम्।
पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत॥ 1-227-4(9813)
संचिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा।
कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम्॥ 1-227-5(9814)
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते।
करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ॥ 1-227-6(9815)
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः।
तथेत्येव तदा क्षत्ता कारयामास तत्तथा॥ 1-227-7(9816)
पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा।
नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान्॥ 1-227-8(9817)
भीष्मो द्रोणः कृपः कर्णो बाह्लीकः ससुतस्तदा।
शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम्॥ 1-227-9(9818)
एवं विहरतां तेषां पाण्डवानां महात्मनाम्।
नेता सर्वस्य कार्यस्य विदुरो राजशासनात्॥' 1-227-10(9819)
विश्रान्तास्ते महात्मानः कंचित्कालं सकेशवाः।
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च॥ 1-227-11(9820)
धृतराष्ट्र उवाच। 1-227-12x(1241)
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम।
`पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत्॥ 1-227-12(9821)
शासनान्मम कौन्तेय मम भ्राता महाबलः।
कृतवान्दुष्करं कर्म नित्यमेव विशांपते॥ 1-227-13(9822)
तस्मात्त्वमपि कौन्तेय शासनं कुरु मा चिरम्।
मम पुत्रा दुरात्मानः सर्वेऽहंकारसंयुताः॥ 1-227-14(9823)
शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर।
स्वकार्यनिरतैर्नित्यमवलिप्तैर्दुरात्मभिः॥' 1-227-15(9824)
पुनर्वै विग्रहो मा भूत्खाण्डवप्रस्थमाविश।
न हि वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्॥ 1-227-16(9825)
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा।
अर्धराज्यं तु संप्राप्य खाण्डवप्रस्थणाविश॥ 1-227-17(9826)
`केशवो यदि मन्यते तत्कर्तव्यमसंशयम्॥' 1-227-18(9827)
वैशम्पायन उवाच। 1-227-19x(1242)
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च।
`वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन्॥ 1-227-19(9828)
धृतराष्ट्र उवाच। 1-227-20x(1243)
अभिषेकस्य संभारान्क्षत्तरानय मा चिरम्।
अभिषिक्तं करिष्यामि ह्यद्य वै कुरुनन्दनम्॥ 1-227-20(9829)
ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वतः।
आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः॥ 1-227-21(9830)
पुण्याहं वाच्यतां तात गोसहस्रं प्रदीयताम्।
ग्राममुख्याश्च विप्रेभ्यो दीयन्तां बहुदक्षिणाः॥ 1-227-22(9831)
अङ्गदे मकुटं क्षत्तर्हस्ताभरणमानय।
मुक्तावलीश्च हारं च निष्काणि कटकानि च॥ 1-227-23(9832)
कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम्।
अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः॥ 1-227-24(9833)
जाह्नवीसलिलं शीघ्रमानीयन्तां पुरोहितैः।
अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम्॥ 1-227-25(9834)
औपवाह्योपरिगतं दिव्यचारमरवीजितम्।
सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम्॥ 1-227-26(9835)
जयेति द्विजवाक्येनु स्तूयमानं नृपैस्तथा।
दृष्ट्वा कुन्तीसुतं ज्येष्ठमाजमीढं युधिष्ठिरम्॥ 1-227-27(9836)
प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः।
पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च॥ 1-227-28(9837)
प्रतिक्रिया कृतमिदं भविष्यति न संशयः।
भीष्मो द्रोणः कृपः क्षत्ता साधुसाध्वित्यथाब्रुवन्॥ 1-227-29(9838)
श्रीवासुदेव उवाच। 1-227-30x(1244)
युक्तमेतन्महाभाग कौरवाणां यशस्करम्।
शीघ्रमद्यैव राजेन्द्र त्वयोक्तं कर्तुमर्हसि॥ 1-227-30(9839)
इत्येवमुक्तो वार्ष्णेयस्त्वरयामास तत्तदा।
तथोक्तं धृतराष्ट्रेण कारयामास केशवः॥ 1-227-31(9840)
तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा।
आगत्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः॥ 1-227-32(9841)
मूर्धाभिषिक्तैः सहितो ब्राह्मणैर्वेदपारगैः।
कारयामास विधिवत्केशवानुमते तदा॥ 1-227-33(9842)
कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ।
बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः॥ 1-227-34(9843)
अभिषेकं तदा चक्रुर्भद्रपीठे सुसंस्कृतम्॥ 1-227-35(9844)
व्यास उवाच। 1-227-36x(1245)
जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नृपान्भवान्।
राजसूयादिभिर्यज्ञैः क्रतुभिर्वरदक्षिणैः॥ 1-227-36(9845)
स्नात्वा ह्यवभृथस्नानं मोदतां बान्धवैः सह।
एवमुक्त्वा तु ते सर्वे आशीर्भिरभिपूजयन्॥ 1-227-37(9846)
मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः।
जयेति संस्तुतो राजा प्रददौ धनमक्षयम्॥ 1-227-38(9847)
सर्वमूर्धाभिषिक्तैश्च पूजितः कुरनन्दनः।
औपवाह्यमथारुह्य श्वेतच्छत्रेण शोभितः॥ 1-227-39(9848)
रराज राजाभिमतो महेन्द्र इव दैवतैः।
ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम्॥ 1-227-40(9849)
प्रविवेश तदा राजा नागरैः पूजितो गृहम्।
मूर्धाभिषिक्तं कौन्तेयमभ्यगच्छन्त कौरवाः॥ 1-227-41(9850)
गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः।
ज्ञात्वा शोकं च पुत्राणां धृतराष्ट्रोऽब्रवीदिदं॥ 1-227-42(9851)
समक्षं वासुदेवस्य कुरूणां च समक्षतः।
अभिषेकस्त्वया प्राप्तो दुष्प्रापो ह्यकृतात्मभिः॥ 1-227-43(9852)
गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव।
आयुः पुरूरवा राजन्नहुषेण ययातिना॥ 1-227-44(9853)
तत्रैव निवसन्ति स्म खाण्डवे तु नृपोत्तम।
राजधानी तु सर्वेषां पौरवाणां महाभुज॥ 1-227-45(9854)
विनाशितं मुनिगणैर्लोभाद्बुधसुतस्य वै।
तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय॥ 1-227-46(9855)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।
त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम्॥ 1-227-47(9856)
पुरं राष्ट्रं समृद्धं वै धनधान्यसमाकुलम्।
तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ॥ 1-227-48(9857)
वैशम्पायन उवाच। 1-227-49x(1246)
प्रतिगृह्य तु तद्वाक्यं तस्मै सर्वे प्रणम्य च।
रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः॥ 1-227-49(9858)
प्रतस्थिरे ततो घोषसंयुक्तैः स्यन्दनैर्वरैः।
तान्दृष्ट्वा नागराः सर्वे भक्त्या चैव प्रतस्थिरे॥ 1-227-50(9859)
गच्छतः पाण्डवैः सार्धं दृष्ट्वा नागपुरालयात्।
पाण्डवैः सहिता गन्तुं नार्हतेति च नागरान्॥ 1-227-51(9860)
घोषयामास नगरे धार्तराष्ट्रः ससौबलः।'
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः॥ 1-227-52(9861)
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिव च्युतम्।
`वासुदेवो जगन्नाथश्चिन्तयामास वासवम्॥ 1-227-53(9862)
महेन्द्रश्चिन्तितो राजन्विश्वकर्माणमादिशत्।
विश्वकर्मन्महाप्राज्ञ अद्यप्रभृति तत्पुरम्॥ 1-227-54(9863)
इन्द्रप्रस्थमिति ख्यातं दिव्यं भूम्यां भविष्यति।
महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम्॥ 1-227-55(9864)
प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत।
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिवान्॥ 1-227-56(9865)
कुरुष्व कुरुराजस्य महेन्द्रपुरसन्निभम्।
इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम्॥ 1-227-57(9866)
वैशम्पायन उवाच।' 1-227-58x(1247)
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः।
स्वस्तिवाच्य यथान्यायमिन्द्रप्रस्थं भवत्विति॥ 1-227-58(9867)
तत्पुरं मापयामासुर्द्वैपायनपुरोगमाः।
`ततः स विश्वकर्मा तु चकार पुरमुत्तमम्॥' 1-227-59(9868)
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम्।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता॥ 1-227-60(9869)
पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा॥ 1-227-61(9870)
द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम्।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः॥ 1-227-62(9871)
विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः॥ 1-227-63(9872)
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्।
थीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्॥ 1-227-64(9873)
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम्।
सुविभक्तमहारथ्यं देवताबाधवर्जितम्॥ 1-227-65(9874)
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः।
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत॥ 1-227-66(9875)
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्।
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्॥ 1-227-67(9876)
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्।
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः॥ 1-227-68(9877)
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा।
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः॥ 1-227-69(9878)
सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा।
उद्यानानि च रम्याणि नगरस्य समन्ततः॥ 1-227-70(9879)
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा।
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा॥ 1-227-71(9880)
शालतालतमालैश्च बकुलैश्च सकेतकैः।
मनोहरैः सुपुष्पैश्च फलभारावनामितैः॥ 1-227-72(9881)
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः।
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः॥ 1-227-73(9882)
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः।
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः॥ 1-227-74(9883)
मत्तबर्हिणसंघुष्टकोकिलैश्च सदामदैः।
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः॥ 1-227-75(9884)
मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः।
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा॥ 1-227-76(9885)
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः।
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः॥ 1-227-77(9886)
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः।
तडागानि च रम्याणि बृहन्ति सुबहूनि च॥ 1-227-78(9887)
`नदी च नन्दिनी नाम सा पुरीमुपगूहति।
चातुर्वर्ण्यसमाकीर्णमन्यैः शिल्पिभिरावृतम्॥ 1-227-79(9888)
सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा।
उपभोगसमृद्धैश्च सर्वद्रव्यसमावृतम्॥ 1-227-80(9889)
नित्यमार्यजनोपेतं नरनारीगणैर्युतम्।
वाजिवारणसंपूर्णं गोभिरुष्ट्रैः खरैरजैः॥ 1-227-81(9890)
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत।
पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा॥ 1-227-82(9891)
पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः।
कृतमङ्गलसत्कारैर्ब्राह्मणैर्वेदपारगैः॥ 1-227-83(9892)
द्वैपायनं पुरस्कृत्य धौम्यस्याभिमते स्थितः।
भ्रातृभिः सहितो राजा राजमार्गमतीत्य च॥ 1-227-84(9893)
औपवाह्यगतो राजा केशवेन सहाभिभूः।
तोरणद्वारसुमुखं द्वात्रिंशद्द्वारसंयुतम्॥ 1-227-85(9894)
वर्धमानपुरद्वारात्प्रविवेश महाद्युतिः।
शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम्॥ 1-227-86(9895)
जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः।
संस्तूयमानो मुनिभिः सूतमागधबन्दिभिः॥ 1-227-87(9896)
औपवाह्यगतो राजा राजमार्गमतीत्य च।
कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम्॥ 1-227-88(9897)
प्रविश्य भवनं राजा नागरैरभिसंवृतः।
प्रहृष्टमुदितैरासीत्सत्कारैरभिपूजितः॥ 1-227-89(9898)
पूजयामास विप्रेन्द्रान्केशेन महात्मना।
ततस्तु राष्ट्रं नगरं नरनारीगणायुतम्॥ 1-227-90(9899)
गोधनैश्च समाकीर्णं सस्यैर्वृद्धिं तदागमत्॥' 1-227-91(9900)
तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत्।
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत॥ 1-227-92(9901)
`सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च।'
तथा भीष्मेण राज्ञा च धर्मप्रणयिना सदा॥ 1-227-93(9902)
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः।
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम्॥ 1-227-94(9903)
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा।
`ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च॥ 1-227-95(9904)
द्वैपायनं च संपूज्य विसृज्य च नराधिपः।
वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम्॥ 1-227-96(9905)
तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयाऽनघ।
प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम्॥ 1-227-97(9906)
तवैव तु प्रसादेन राज्यस्थाश्च भवामहे।
गतिस्त्वमापत्कालेऽपि पाण्डवानां च माधव॥ 1-227-98(9907)
ज्ञात्वा तु कृत्यं कर्तव्यं कारयस्व भवान्हि नः।
यदिष्टमनुमन्तव्यं पाण्डवानां त्वयाऽनघ॥ 1-227-99(9908)
श्रीवासुदेव उवाच। 1-227-100x(1248)
त्वत्प्रभावान्महाराज्यं संप्राप्तं हि स्वधर्मतः।
पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो॥ 1-227-100(9909)
धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान्।
यथेष्टं पालय जगच्छश्वद्धर्मधुरं वह॥ 1-227-101(9910)
पुनः पुनश्च संहर्षाद्ब्राह्मणान्भर पौरव।
अद्यैव नारदः श्रीमानागमिष्यति सत्वरः॥ 1-227-102(9911)
आदत्स्व तस्य वाक्यानि शासनं कुरु तस्य वै।
एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः॥ 1-227-103(9912)
उवाच श्लक्ष्णया वाचा गमिष्यामि नमोस्तु ते। 1-227-104(9913)
कुन्त्युवाच।
जातुषं गृहमासाद्य मया प्राप्तं यदानघ॥ 1-227-104x(1249)
आर्येण समभिज्ञातं त्वया वै यदुपुङ्गव।
त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम्॥ 1-227-105(9914)
त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः।
सर्वदुःखानि शाम्यन्ति तव संदर्शनान्मम॥ 1-227-106(9915)
स्मरस्वैनान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः॥ 1-227-107(9916)
वैशम्पायन उवाच। 1-227-108x(1250)
करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम्।
गमनाय मतिं चक्रे वासुदेवः सहानुगः॥' 1-227-108(9917)
तान्निवेश्य ततो वीरः सह रामेण कौरवान्।
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा॥ ॥ 1-227-109(9918)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः॥ 227 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|